मूलकर्म्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलकर्म्म, क्ली, (मूलञ्च तत् कर्म्म चेति ।) ओष- ध्यादिमूलेन यत् त्रासनोच्चाटनस्तम्भनवशी- करणादिकर्म्म । जो इति ख्यातम् । इति भरतः ॥ टोना इति मुकुटः ॥ तत्पर्य्यायः । कार्म्मणम् २ । इत्यमरः । ३ । २ । ४ ॥ ऊनपञ्चाशदुपपात- कान्तर्गतोपपातकविशेषः । यथा, -- “सर्व्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म्म च ॥” इति मनुः । ११ । ६४ ॥ “मन्त्रौषधादिना वशीकरणम् ।” इति मूल- कर्म्मशब्दव्याख्यायां कुल्लूकभट्टः ॥
