सामग्री पर जाएँ

मूलकृच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूलकृच्छम्, क्ली, (मूलेन तद्रमपानेन कृच्छ्रम् ।) एकादशविधपर्णकृच्छ्रव्रतान्तर्गतव्रतविशेषः । यदा क्वथितानि वृक्षमूलानि मासं पीयन्ते तदा मूलकृच्छ्रव्यपदेशं लभते । यथाह मार्कण्डेयः । “फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु ॥” इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥ (पुंलिङ्गोऽप्ययं मार्कण्डेयपुराणोक्तत्वात् ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूलकृच्छ¦ पु॰ मूलेन क्वाथितवृक्षमूलेन कृच्छ्रः।
“मूलकृच्छ्रःस्मृतो मूलैरिति” स्मृत्युक्ते

१ व्रतभेदे। तद् यस्य।

२ तद्वति त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=मूलकृच्छ&oldid=361539" इत्यस्माद् प्रतिप्राप्तम्