मूलत्रिकोण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलत्रिकोणम्, क्ली, (मूलञ्च तत्त्रिकीणञ्चेति ।) अर्कादिग्रहाणां राशिरूपगृहविशेषः । स तु रवेः सिंहः । चन्द्रस्य वृषः । कुजस्य मेषः । बुधस्य कन्या । गुरोर्धनुः । भृगोस्तुला । शनेः कुम्भः । यथा, -- “सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः । अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात् ॥” अथ मूलत्रिकोणांशव्यवस्था । “रविभौमजीवभार्गवशनैश्चराणां त्रिकोण- भागाः स्युः । नखरविदिक्तिथिनखरा ज्ञेन्दोर्दिग्भांशका सूच्चात् ॥” इति ज्योतिस्तत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलत्रिकोण¦ न॰
“सिंहो वृषश्च मेषश्च कन्या घन्वी धटोघटः।
“अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात्” रव्यादीनां क्रमेण सिंहादिषु राशिषु। तदंशाश्च
“रवि-भौमजीवभार्गवशनैश्चराणां त्रिकोणभागाः स्युः। नस्न-रविटिक्तिथिनस्यराज्ञेन्द्वो दिग्भांशकाः सूच्चात्” ज्यो॰ त॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलत्रिकोण/ मूल--त्रिकोण n. the third astrological house VarBr2S.