मूलप्रकृतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलप्रकृतिः, स्त्री, (मूला चासौ प्रकृतिश्चेति ।) आद्या शक्तिः । यथा, -- “सर्व्वप्रसूता प्रकृतिः श्रीकृष्णः प्रकृतेः परः । न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना । सृष्टिं विधातुं मायेशो न सृष्टिर्मायया विना ॥ सा च कृष्णे तिरोभूता सृष्टिसंहारकारके । आविर्भूता सृष्टिकाले सा च नित्या यथेश्वरः ॥ कुलालश्च घटं कर्त्तुं यथाशक्तो मृदं विना । स्वर्णं विना स्वर्णकारः कुण्डलं कर्त्तुमक्षमः ॥ सा शक्तिः सृष्टिकाले च पञ्चधा चेश्वरेच्छया । राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥ प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः । प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥ ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी । परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥ विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा । वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता ॥ बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी । सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी ॥ वागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा । कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती ॥ पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी । ततः सृष्टिक्रमेणैव बहुधा कलया च सा ॥ थोषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च । मायया सृष्टिकाले च तद्विना न भवेद्भवः ॥ सृष्टिश्च प्रतिविश्वे च ब्रह्मन् ! ब्रह्मोद्भवा सदा । पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः ॥” इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४० अः ॥
