मूलाधारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूलाधारः, पुं, (मूलानामाधारः । मूलं प्रधानं आधार इति वा ।) गुह्यलिङ्गयोर्मध्ये अङ्गुलि- द्वयमितस्थानम् । स तु शरीरस्थसकलनाडीनां मूलस्थानम् । अत्र व श षं साक्षरयुक्तस्वर्ण- वर्णचतुर्द्दलपद्ममस्ति । तन्मध्ये इच्छाज्ञानक्रिया- स्वरूपत्रिकोणं वर्त्तते । तन्मध्ये कोटिसूर्य्यसम- प्रभस्वयम्मुलिङ्गमस्ति । अत्र पृथिवी वर्त्तते । करोति पापक्षयमेव मुक्तिं ददाति साक्षादमलार्थपुण्यदा ॥”
