मूल्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूल्यम्, क्ली, (मूलेन आनाम्यते अभिभूयते मूलेन- समं वा इति । मूल + “नौवयोधर्म्मेत्यादिना ।” ४ । ४ । ९१ । इति यत् ।) पटादीनामुत्पत्ति- कारणम् । मूलं मूलेन क्रयविक्रयार्थमिदं ढघे कादिति यः । इति भरतः ॥ दर इति दाम इति च भाषा । तत्पर्य्यायः । वस्नः २ अव- क्रयः ३ । इत्यमरः । २ । १० । ३९ ॥ (यथा, मनौ । ८ । ३२२ । “पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥”) मूल्यते अर्प्यते इदम् । माहिना इति भाडा इति च भाषा । तत्पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः ५ भर्म्म ६ वेतनम् ७ भरण्यम् ८ भरणम् ९ निर्व्वेशः १० पणः ११ । इति च अमरः । २ । १० । ३८ ॥ (यथा, मिताक्षरायाम् । “मूल्येन यः कर्म्म करोति स भृतकः ।”)
मूल्यम्, त्रि, (मूलं रोपणमर्हतीति । मूल + यत् ।) प्रतिष्ठायोम्यः । रोपणयोग्यः । इति मूलधात्वर्थ- दर्शनात् ॥ (मूलत उत्पाट्यते इति । “मूल- मस्यावर्हि ।” ४ । ४ । ८८ । इति यत् । मूलत- उत्पाटनयोग्ये मुद्गादौ ॥)
