सामग्री पर जाएँ

मूषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूषा, स्त्री, (मूषति गृह्णातीति । मूष + कः + स्त्रियां टाप् ।) स्वर्णाद्यावर्त्तनपात्रम् । मूची इति भाषा ॥ (यथा, पञ्चदश्याम् । ४ । २ । “मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रूपादीन्व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥”) तत्पर्य्यायः । तैजसावर्त्तनी २ । इत्यमरः । २ । १० । ३३ ॥ मुषा ३ मुषी ४ आवर्त्तनी ५ मूषी ६ । इति भरतः ॥ “बृहद्भाण्डे तुषैः पूर्णो मध्ये मूषां विधारयेत् । क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डं पुटसुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) मूषिका ७ । इति रमानाथः ॥ देवताडकः । इति शब्दचन्द्रिका ॥ मूषिकस्त्रीजातिः । इति शब्दरत्नावली ॥ गवाक्षः । यथा, -- “एकद्वित्र्यादिमूषावहनभितिमहो ब्रूहि मे भूमिभर्त्तु- र्हर्म्म्ये रम्येऽष्टमूषे चतुरविरचिते श्लक्ष्णशाला- विशाले ।” इत्यादि लीलावत्यां श्रेढीव्यवहारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूषा स्त्री।

मूषा

समानार्थक:तैजसावर्तनी,मूषा

2।10।33।1।2

तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका। आस्फोटनी वेधनिका कृपाणी कर्तरी समे॥

पदार्थ-विभागः : उपकरणम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूषा [mūṣā] मूषिका [mūṣikā], मूषिका 1 A female rat.

A crucible.

An air-hole.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मूषा f. See. below.

मूषा f. Lipeocercis Serrata Car.

मूषा f. a round window , air-hole L.

"https://sa.wiktionary.org/w/index.php?title=मूषा&oldid=362343" इत्यस्माद् प्रतिप्राप्तम्