मूषिकः

विकिशब्दकोशः तः
मूषिकः

संस्कृतम्[सम्पाद्यताम्]

  • मूषिकः, आखुः, चिक्किरः, आखनिकः, इन्दूरः, उन्दूरः, उन्दुरुः, कर्वः, काचिघः, कुन्दुः, कुहनः, दहरः, धान्यारिः, बहुप्रजः, मूषः, मूषकः, मुष्मः, पिङ्गः, सुषिरः, गणेशवाहनः।


नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिकः, पुं, (मूष्णाति द्रव्याणीति । मूष् + “मुषेर्दीर्घश्च ।” उणा० २ । ४२ । इति किकन् दीर्घश्च ।) जन्तुविशेषः । इन्दुर इति भाषा । (यथा, हितोपदेशे मित्रलाभप्रकरणे । १३१ । “धनेन बलवान् सर्व्वो धनाद्भवति पण्डितः । पश्यायं मूषिकः पापः स्वजातिसमतां गतः ॥”) तत्पर्य्यायः । उन्दुरुः २ आखुः ३ । इत्यमरः । २ । ५ । १२ ॥ मूषः ४ मूषीकः ५ उन्दूरुः ६ बभ्रुः ७ वृषः ८ आखनिकः ९ वृशः १० । इति शब्दरत्नावली ॥ मूषकः ११ पिङ्गः १२ उन्दु- रुकः १३ नखी १४ खनकः १५ विलकारी १६ धान्यारिः १७ बहुप्रजः १८ । अस्य मांस- गुणाः । “अहिनकुलशल्यगोधामूषकमुख्या विलेशयाः कथिताः । श्वासानिलकाशहरं तन्मांसं पित्तदाहकरम् ॥ अन्ये विलेशया ये स्युः केङ्किडोन्दुरुकादयः । गर्हितं तस्य मांसञ्च मद्यगौरवदुर्ज्जरम् ॥” इति राजनिर्घण्टः ॥ अपि च । “मूषिको मधुरः स्निग्धो व्यवायी बलबर्द्धनः ।” इति राजवल्लभः ॥ * ॥ पारिभाषिकमूषिको यथा, -- “विभवे सति नैवात्ति न ददाति जुहोति च । तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥” इति मार्कण्डेयपुराणे आचाराध्यायः ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ५८ । “द्रविडाः केरलाः प्राच्या मूषिका वन- वासिका ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिकः [mūṣikḥ], 1 A rat; पश्य मूषिकमात्रेण कपोता मुक्तबन्धनाः H.

A thief.

The Śirīṣa tree.

N. of a country.-Comp. -अङ्कः, -अञ्चनः, -रथः epithets of Gaṇeśa.-अदः a cat. -अरातिः a cat. -उत्करः, -स्थलम् a molehill. -विषाणम् 'the horn of a mouse', i. e. an impossibility; cf. शशविषाण, खपुष्प &c.

"https://sa.wiktionary.org/w/index.php?title=मूषिकः&oldid=508221" इत्यस्माद् प्रतिप्राप्तम्