सामग्री पर जाएँ

मृगया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया, स्त्री, (मृग्यन्ते पशवोऽस्यां इति । मृग + णिच् । “इच्छा ।” ३ । ३ । १०१ । इत्यत्र परिचर्य्या परिसर्य्यामृगयाटाट्यानामुपसंख्यानम् । इति वार्त्तिकोक्त्या से यकि णिलोपः । इति सिद्धान्त- कौमुदी ॥) राज्ञां वनेषु मृगहननक्रिया । मृग्यन्ते अन्विष्यन्तेऽस्याम् । शिकार इति भाषा । तत्पर्य्यायः । आच्छोदनम् २ मृगव्यम् ३ आखेटः ४ । इत्यमरः ॥ तन्नियमविधिर्यथा, -- “चचार मृगयां तत्र दृप्त आत्तेषुकार्म्मुकः । विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ५ ॥ आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर्ब्बाणैर्वनेषु वनगोचरान् ॥ ६ ॥ तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥” ७ ॥ इति श्रीभागवते ४ स्कन्धे २६ अध्यायः ॥ आत्ता गृहीता इषवो रागद्वेषादिरूपाः कार्म्मुकञ्च भोगाद्यभिनिवेशरूपं येन । जायां विवेकवतीं बुद्धिं विहाय । अतदर्हां त्यागान- र्हाम् । त्यागे हेतुः मृग्यन्ते इति मृगाः विषयाः तेषु व्यसनं भोगासक्तिस्तेन लालसा अतिस्पृहा यस्य ॥ ५ ॥ बाणै रागादिभिः । वनेषु भजनीय- देशेषु । वनगोचरान् भजनीयविषयान् । न्यहनत् भजनीयदेशादात्मसात् कृतवान् । कथापक्षे तु स्पष्टमेव ॥ ६ ॥ नन्वासुरीं वृत्ति- माश्रित्य इति किमिति मृगया निन्द्यते । कथापक्षे तावद्राज्ञो विहितैव सा । अध्यात्म- पक्षेऽपि जीवस्य विषयभोगो विहित एव इत्याशङ्क्याह तीर्थेष्विति त्रिभिः । अयं भावः । न हि मृगया विधीयते रागप्राप्तत्वात् किन्तु नियम्यते प्रवृत्तिः सङ्कोच्यते । नियममेव षड्- विधं दर्शयति । यदि अलमत्यर्थं लुब्धो रागी सन् हन्यात् तर्हि तीर्थेषु श्राद्धादिष्वेव तत्रापि श्रुतिदृष्टेषु प्रख्यातेष्येव न नित्यश्राद्धादिषु । तत्रापि राजैव । मेध्यानेव । वन एव । यावदु- पयोगमेव इति । एवं जीवस्य विषयसेवापि यावदुपयोगं न यथेष्टमिति नियम एव इत्यर्थः ॥ ७ ॥ इति तट्टीकायां श्रीधरस्वामी ॥ सा राज्ञां पापाय न स्यात् । यथा, -- “अबलस्वकुलाशिनो झसा- न्निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्द्दिनो मृगान् मृगयाघाय न भूभृतां घ्नताम् ॥” इति नैषधे २ सर्गे १० श्लोकः ॥ सा च कामजव्यसनविशेषः । यथा, -- “मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥” इति मलमासतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया स्त्री।

मृगया

समानार्थक:आच्छोदन,मृगव्य,आखेट,मृगया

2।10।23।2।4

विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः। आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया¦ स्त्री मृगं यात्यनया या--घञर्थे क। (स्नीकार)[Page4761-a+ 38] पशुबधफलके व्यापारभेदे आखेटके अमरकोषः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया¦ f. (-या) Chase, hunting. E. मृग् to search or seek, यत् aff., deriv. irr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया [mṛgayā], [मृगं यात्यनया या घञर्थे क] Hunting, chase; मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः Ś.2.5; मृगयाप- वादिना माठव्येन Ś.2; so मृगयावेष, मृगयाविहारिन् &c. -Comp. -अरण्यम्, -वनम् a park. -क्रीडनम्, -क्रीडा pleasure of hunting. -धर्मः the rules of hunting. -यानम् a hunting expedition. -रसः the pleasure of the chase.-व्यसनम् a hunting accident.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगया f. See. below.

मृगया f. hunting , the chase( acc. with अत्, गम्, चर्etc. dat. with या, निर्-याand विहर्, to go hunting) Mn. MBh. etc.

मृगया f. Chase personified (as one of the attendants of रेवन्त) VarBr2S.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--hunting; फलकम्:F1: Br. I. 2. २०; वा. 2. २०; ८५. २७; ८८. १३; ९६. ३७; ९९. २०४.फलकम्:/F to be avoided by kings. फलकम्:F2: M. २२०. ८०फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=मृगया&oldid=435503" इत्यस्माद् प्रतिप्राप्तम्