मृगशिरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगशिरः, [स्] क्ली, (मृगस्येव शिरोऽस्य ।) सप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम् । तत्- पर्य्यायः । मृगशीर्षम् २ आग्रहायणी ३ । इत्यमरः । १ । ३ । २३ ॥ (यथा, बृहत्संहिता- याम् । १० । ५ । “मृगशिरसि वत्सयाजक- यजमानार्य्यजनमध्यदेशाश्च ।”) तत्तु विडालपदाकृति तारात्रयात्मकं चन्द्राधि- दैवतम् । इति ज्योतिषम् ॥ गगनमध्ये तस्योदये कन्यालग्नस्य द्वात्रिंशत्पलानि गतानि भवन्ति । यथा, -- “मूषिकाशनपदाकृतौ विधौ व्योममध्यमिलिते त्रितारके । शारदेन्दुमुखि ! कन्यकोदया- दीक्षणानलकलाः कलावति ! ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातफलम् । यथा, -- “शरासनाभ्यासरतो विनीतः सदानुरक्तो गुणिनां गुणेषु । भक्तानुपस्नेहभरेण पूर्णः सन्मार्गवर्त्ती मृगजन्मभागी ॥” इति कोष्ठीप्रदीपः ॥
