सामग्री पर जाएँ

मृगेन्द्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृगेन्द्रः, पुं, (मृगाणामिन्द्रः श्रेष्ठः ।) सिंहः । इत्यमरः । २ । ५ । १ ॥ (यथा, श्रीमद्भागवते । १ । १२ । २२ । “मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥” भगवद् विभूतिः । यथा, श्रीमद्भगवद्गीतायाम् । १० । ३० । “मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥” छन्दोविशेषश्च ॥)

"https://sa.wiktionary.org/w/index.php?title=मृगेन्द्रः&oldid=158771" इत्यस्माद् प्रतिप्राप्तम्