मृत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृत्, [द्] स्त्री, (मृद्नाति प्रलये चूर्णतया स्वकारणे लीयत इति । मृद् + कर्त्तरि क्विप् ।) मृत्तिका । इत्यमरः । २ । १ । ४ । (यथा, मनुसंहिता- याम् । ४ । ३९ । “मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥” (यथास्या गुणाः । “कषाया मारुतं पित्तमुषरा मधुरा कफम् ॥ कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् । पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि । इन्द्रियाणां बलं हत्वा तेजोवीर्य्यौजसी तथा । पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥” इति माधवकरकृतरुग्विनिश्चये पाण्डुरोगाधि- कारे ।) तुवरी । इति राजनिर्घण्टः ॥ * ॥ मृत्तिकाशौचं यथा, -- “दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्य्यात् मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्य्यान्महाव्रताः ॥” इति गारुडे ९४ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृत् मृत्-कणetc. See. below.
मृत् in comp. for 2. मृद्.
