मृत्युञ्जयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृत्युञ्जयः, पुं, (मृत्युं जितवान् । जि + खच् + मुम् च ।) शिवः । इत्यमरः ॥ तन्नामकारणं यथा, -- सुयज्ञ उवाच । “शिवो लीनो निर्गुणे चेत् श्रीकृष्णे प्राकृते लये । कथं तव गुरोर्नाम मृत्युञ्जय इति श्रुतौ ॥” सुतपा उवाच । “ब्रह्मणोऽन्ते मृत्युकन्या प्रनष्टा जलबिन्दुवत् । संहर्त्री सर्व्वलोकाणां ब्रह्मादीनां नराधिप ! ॥ कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशो लये । कालेन लीनः शम्भुश्च सत्त्वरूपी च निर्गुणे ॥ मृत्युकन्या जिता शश्वत् शिवेन गुरुणा मम । न मृत्युना जितः शम्भुः कल्पे कल्पे श्रुतौ श्रुतम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ रोगशान्त्यर्थं तस्य पूजाविधिर्यथा, -- “मृत्युञ्जयं समापूज्य लिङ्गं त्रिभुवनेश्वरम् । रोगात्ता मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥ यस्तु संपूजयेद्भक्त्या लिङ्गं मृत्युञ्जयाभिधम् । यमोऽपि प्रणमेद्भक्त्या किं करिष्यति चामयः ॥ तस्य पूजाविधिं वक्ष्ये शृणु मत्प्राणबल्लभे ! । जातिभेदे मृत्तिकान्तु गृहीत्वाशीतितोलकम् ॥ निर्म्माय पार्थिवं लिङ्गं कांस्याधारे निवेशयेत् । पौराणिकेन मन्त्रेण कुर्य्याच्च गठनं बुधः ॥ स्नापयेत् पञ्चगव्येन प्रत्येकस्याष्टतोलकम् । स्वस्वमन्त्रैश्च प्रत्येकद्रव्येण खापयेत् सुधीः ॥ रोगक्षयकामनया नामगोत्रादिपूर्ब्बकम् । उपविश्यासने विप्रो धृत्वा धौते च वाससी ॥ रुद्राक्षमालां कण्डे वै धृत्वा भस्मत्रिपुण्ड्रकम् । उपचारं षोडशकं देयं भक्त्या प्रयत्नतः ॥ सुवर्णस्यासनं देयं तथैवाभरणानि च । वस्त्रयुग्मं प्रदद्यात्तु परिधेयं यथा भवेत् ॥ मधुपर्कं कांस्यपात्रे दद्याद्भोजनयोग्यकम् । विल्वपत्रसहस्रञ्च अभग्नं विनिवेदयेत् ॥ एवं संपूज्य लिङ्गैकं जपेन्मन्त्रं सहस्रकम् । ततो होमं प्रकुर्य्याच्च दक्षिणां ब्राह्मणे ददेत् ॥ सुवर्णं वा तदर्द्धं वा देवि ! विभवमानतः । अङ्गहीना न कर्त्तव्या पूजा चाफलदा यतः ॥ एकलिङ्गं समाराध्य फलं स्यादन्यके युगे । तत् फलं लभते देवि ! कलौ संख्या चतुर्गुणा ॥ ताम्रपात्रे तु संस्थाप्य अशीतितोलकं जलम् । तज्जलेनैव देवेशि ! कुशैः संमार्ज्य रोगिणम् ॥ क्षिपेद्दीपशिखायाञ्च मन्त्रमुच्चार्य्य मामकम् । एवंविधिविधानेन पूजयेन्मम लिङ्गकम् ॥ यादृग्यादृग्भवेद्रोगो नाशमेति मयोदितः । साङ्गेन पूजयित्वा च लभते वाञ्छितं फलम् ॥ अङ्गव्यतिक्रमेणैव वृथा भवति वासना । रोगी प्रमुच्यते सद्यो भोगीव कञ्चुकोज्झितः । यदि मद्वचने भक्तिस्तदा मुक्तो भवेन्नरः ॥” इति मृत्युञ्जयतन्त्रम् ॥ (ज्वरनाशकौषधविशेषः । तद्यथा, -- “अव्यक्तः सिद्धिदः शुद्धो रोगघ्नः कीर्त्तिवर्द्धनः । यशःप्रदः शिवः साक्षात् मत्युञ्जयरसः स्मृतः ॥ विषस्यैकस्तथा भागो मरीचं पिप्पली कणा । गन्धकस्य तथा भागो भागः स्याट्टङ्गणस्य वै ॥ सर्व्वत्र समभागः स्याद्धिङ्गुलन्तु द्विभागकम् । चूर्णयेत् खल्लमध्ये तु मुद्गमानां वटीञ्चरेत् ॥ रसश्चेत् समभागः स्याद्धिङ्गुलं नेष्यते तदा । मृत्युरूपं ज्वरं हन्ति मृत्युञ्जयरसः स्मृतः ॥ मृत्युर्विनिर्जितो यस्मात्तस्मान्मृत्युञ्जयः स्मृतः । मधुना लेहनं प्रोक्तं सर्व्वज्वरनिवृत्तये ॥ दध्योदकानुपानेन वातज्वरनिवर्हणः । आर्द्रकस्य रसैः पानं दारुणे सान्निपातिके ॥ जम्बीररसयोगेन सर्व्वज्वरविनाशनः । अजाजीगुडसंयुक्तो विषमज्वरनाशनः ॥ तीव्रज्वरे महाघोरे पुरुषे यौवनान्विते । पूर्णमात्रा प्रदातव्या पूर्णं वटीचतुष्टयम् ॥ स्त्रीबालवृद्धक्षीणे च अर्द्धमात्राः प्रकीर्त्तिताः । नवज्वरे महाघोरे यामैकान्नाशयेद्ध्रुवम् ॥ मध्यज्वरे तथाजीर्णे त्रिरात्रान्नाशयेद्ध्रुवम् । सप्ताहात् सन्निपातोत्थं ज्वराजीर्णकसंज्ञ- कम् ॥” इति मृत्युञ्जयो रसः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे ज्वराधिकारे ॥ क्ली, ज्ञानविशेषः । यथा, ब्रह्मवैवर्त्तपुराणे प्रकृतिखण्डे । ४६ । ९५ । “शम्भुश्च चतुरो वेदान् वेदाङ्गानितरांस्तथा । बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥”)
