मृदुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृदुः, त्रि, (म्रद्यते म्रदितुं शक्यते इति । म्रद् + “प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।” उणा० १ । २९ । इति कुः ।) अतीक्ष्णः । कोमलः । इत्यमरः । ३ । १ । ७८ ॥ (यथा, -- “मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) गृहकन्यायां स्त्री । इति राजनिर्घण्टः ॥ (पुं, नृपञ्जयराजपुत्त्रः । इति विष्णुपुराणे । ४ । २१ । ३ ॥)
