सामग्री पर जाएँ

मृश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृश, श औ मृशि । इति कविकल्पद्रुमः ॥ (तुदा०-पर० सक०-अनिट् ।) श, मृशति । औ, अमार्क्षीत् अम्राक्षीत् अमृक्षत् । मृशि इति तालव्यान्तस्यैव क्विपि रूपम् । तेन अनि- र्दि ष्टार्थत्वात् स्पर्शनं प्रणिधानञ्च अस्यार्थः । स्पर्शने । यथा, रघौ । ३ । ६८ । “परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ।” प्रणिधाने । “रामप्रवासे व्यमृशन्न दोषं जनापवादं सनरेन्द्रमृत्युम् ।” केकयीति भट्टिः । ३ । ७ ॥ विमर्शं परामर्शः । मृषि इति मूर्द्धन्यान्तपाठो हेयः । तर्हि क्षमैवार्थः स्यात् । इति दुर्गा- दासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मृश¦ स्पर्शने प्रणिधाने च तु॰ पर॰ सक॰ अनिट्। मृशतिअम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श।

"https://sa.wiktionary.org/w/index.php?title=मृश&oldid=365968" इत्यस्माद् प्रतिप्राप्तम्