मृष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृष, त् क क्षान्तौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् । अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।) मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते । इति दुर्गादासः ॥
मृष, त् ञ क्षान्तौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् । अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।) मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते । इति दुर्गादासः ॥
मृष, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् । क्त्वावेट् ।) उ, मर्षित्वा मृष्ट्वा । इति दुर्गादासः ॥
मृष, क क्षान्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, मर्षयति । अयमात्मने- पदीत्येके । इति दुर्गादासः ॥
मृष, ञ ङ उ क्षान्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-आत्म०-च-सक०-सेट् । क्त्वावेट् ।) ञ, मर्षति मर्षते । ङ, मर्षते । उ, मर्षित्वा मृष्ट्वा । अपि गुरुमपराधं मर्षति ब्राह्मणाना- मिति हलायुधः । इति दुर्गादासः ॥
मृष, य ञ क्षान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०- उभ०-सक०-सेट् ।) य ञ्, मृष्यति मृष्यते ममर्ष । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृष¦ क्षमायाम् अद॰ चु॰ उभ॰ सक॰ सेट्। मृषयति ते अमी-मृषत् त।
मृष¦ क्षान्तौ अद॰ भ्वा॰ उभ॰ सक॰ सेट्। मृषति ते अमृषीत् अमृषिष्ट।
मृष¦ सेचने भ्वा॰ पर॰ सक॰ सेट्। मर्षति अमर्षीत् उदित् क्त्वावेट्। [Page4763-a+ 38]
मृष¦ क्षमायां चु॰ उभ॰ सक॰ सेट्। मर्षयति ते अमीमृषत् तअममर्षत् त।
मृष¦ क्षमायां भ्वा॰ उभ॰ सक॰ सेट्। मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट्।
मृष¦ क्षमायां चु॰ पक्षे दिवा॰ च उभ॰ सक॰ सेट्। मृष्यति ते। मर्षयति ते। मर्षितः मर्षित्वा।
