मृषार्थकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृषार्थकम्, क्ली, (मृषा अर्थोऽस्य । बहुब्रीहौ कप् ।) अत्यन्तासम्भवार्थबाक्यम् । तत्पर्य्यायः । आह- तम् २ । इत्यमरः । १ । ६ । २१ । अत्यन्ता- सम्भवार्थे वचसि । आहन्यते स्म आहतं क्तः । मृषा मिथ्या अर्थोऽस्य मृषार्थकं इह मृषार्थं यत् सर्व्वथा न घटते । यथा, -- “एष बन्ध्यासुतो याति खपुष्पकृतशेखरः । कूर्म्मलोमतनूत्राणः शशशृङ्गधनुर्द्धर इति ॥ यावज्जीवमहं मौनी ब्रह्मचारी पिता ममेति । अस्य चायं भेदः मौनित्वं ब्रह्मचारित्वं अन्यत्र सिद्धमेव बन्ध्यासुतत्वं खपुष्पत्वञ्चान्यत्रासिद्ध- मिति । इति भरतः ॥
