सामग्री पर जाएँ

मेघनादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेघनादः, पुं, (मेघं नादयतीति । नद् + णिच् + अण् ।) वरुणः । (मेघस्य नाद इव नादो यस्य ।) रावणपुत्त्रः । इति मेदिनी । दे, ५२ ॥ (यथा, रघौ । १२ । ७६ । “गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ॥” मेघस्य नादः ।) मेघशब्दः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ७३ । ७ । “ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा । प्रणेदुस्तन्मुखा राजन् ! मेघनाद इवोत्- सुकाः ॥”) पलाशवृक्षः । इति शब्दचन्द्रिका ॥ तण्डुलीय- शाकः । इति राजनिर्घण्टः ॥ (यथा, भाव- प्रकाशे । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ॥” अस्य गुणादिकं तण्डुलीयशब्दे द्रष्टव्यम् ॥ दानवभेदः । यथा, हरिवंशे । ३३२ । ३० । “सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्य्यवान् ॥” मेघसदृशशब्दविशिष्टे, त्रि । यथा, रामायणे । २ । १६ । २९ । “मेघनादमसम्बाधं मणिहेमविभूषितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=मेघनादः&oldid=158982" इत्यस्माद् प्रतिप्राप्तम्