मेघनिर्घोषः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेघनिर्घोषः, पुं, (मेघस्य निर्घोषः ।) मेघशब्दः । तत्पर्य्यायः । स्तनितम् २ गर्जितम् ३ रसितम् ४ । इत्यमरः । १ । ३ । ८ ॥ ध्वनितम् ५ ह्रादितम् ६ । इति भरतः ॥ (मेघस्य निर्घोष इव निर्घोषो यस्य । मेघतुल्यशब्दविशिष्टे, त्रि । यथा, महा- भारते । ३ । ७३ । ११ । “यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥”)
