सामग्री पर जाएँ

मेचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचकम्, क्ली, (मचति वर्णान्तरेण मिश्रीभवतीति । मच् + “कृञादिभ्यः संज्ञायां वुन् ।” उणा० ५ । ३५ । इति वुन् । ततः “पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति इत्वे लघूपधगुणः । यद्वा, मच मचि कल्कने + अकन् । मचि परिमुचां नाम्नीत्येत्वम् । मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः । इति शब्दार्णवः । व्युत्पत्तिस्तु मचति मिश्रीभवति वर्णान्तरेण इति भरतः । इत्यमरटीकायां रघु- नाथचक्रवर्त्ती ।) श्रोतोऽञ्जनम् । अन्धकारः । इति मेदिनी । के, १४० ॥ नीलाञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, -- “मेचकं मर्द्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम् ।” इति माधवकरकृतरुग्विनिश्चयव्याख्यानेऽतीसा- राधिकारे विजयरक्षितः ॥)

मेचकः, पुं, मयूरचन्द्रकः । श्यामलः । इति मेदिनी । के, १४० ॥ (यथा, “मेचकामं आगार- धूमाभञ्च ससारगन्धकादिमणिमसृणीकृतकृष्ण- वर्णस्येव वर्णो मेचक इति जेज्जडादयः प्राहुः चिक्कणकृष्ण इत्यर्थः ।” इति रुग्विनिश्चयस्य रक्तपित्तव्याख्याने विजयेनोक्तम् ॥) धूमः । मेघः । शोभाञ्जनः । इति शब्दरत्नावली ॥ श्यामलगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १४ ॥ (यथा, शिशुपालवधे । ६ । २६ । “गजकदम्बकमेचकमुच्चकै- र्नभसि वीक्ष्य नवाम्बुदमम्बरे ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचक पुं।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

1।5।14।1।7

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

मेचक पुं।

पिच्छस्थचन्द्राकृतिः

समानार्थक:चन्द्रक,मेचक

2।5।31।1।3

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

वैशिष्ट्य : मयूरपिच्छः

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचक¦ न॰ मच--वुन् पृषो॰।

१ अन्धकारे

२ स्रोतोऽञ्जने चमेदि॰

३ नीलाञ्जने राजनि॰।

४ मयूरचन्द्रके

५ कृष्णवर्णेमेदि॰।

६ धूमे

७ मेघे

८ शोभाञ्जने शब्दर॰

९ कृष्णवर्ण-युते त्रि॰ अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचक¦ mfn. (-कः-का-कं) Black, dark, of a dark, or black colour. m. (-कः)
1. Black or dark-blue, (the colour.)
2. The eye of a peacock's tail.
3. A cloud.
4. Smoke.
5. A nipple.
6. A plant, (Hyperanthera morunga.) mn. (-कः-कं) Darkness. n. (-कं) Sulphuret of antimony. E. मच् to mix, Una4di aff. वुन्, and the vowel changed to ए |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचक [mēcaka], a. [cf. Uṇ.5.37] Black, dark-blue, dark-coloured; कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठते Mk.5.23; U.6.25; Me.61; Rām.5.22.26.

कः Blackness, the dark-blue colour.

An eye of a peacock's tail; प्रेङ्खद्भूरिमयूखमेचकचयैः Māl.6.5.

A cloud.

Smoke.

A nipple.

A kind of gem.

कम् Darkness.

Sulphuret of antimony. -Comp. -आपगा an epithet of the Yamunā. -गलः a peacock.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचक mf( आ)n. dark-blue , black MBh. Ka1v. etc. (in alg. applied to the 15th unknown quantity Col. )

मेचक m. dark-blue colour , blackness L.

मेचक m. the eye of a peacock's tail Ma1lati1m.

मेचक m. a kind of gem L.

मेचक m. smoke L.

मेचक m. a cloud L.

मेचक m. Moringa Pterygosperma L.

मेचक m. (also n. )a teat , nipple L.

मेचक n. darkness L.

मेचक n. sulphuret of antimony , L:

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Mecaka  : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison (viṣolbaṇa) 1. 52. 14, 13.

_______________________________
*1st word in left half of page p47_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=मेचक&oldid=446240" इत्यस्माद् प्रतिप्राप्तम्