सामग्री पर जाएँ

मेचकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेचकम्, क्ली, (मचति वर्णान्तरेण मिश्रीभवतीति । मच् + “कृञादिभ्यः संज्ञायां वुन् ।” उणा० ५ । ३५ । इति वुन् । ततः “पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति इत्वे लघूपधगुणः । यद्वा, मच मचि कल्कने + अकन् । मचि परिमुचां नाम्नीत्येत्वम् । मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः । इति शब्दार्णवः । व्युत्पत्तिस्तु मचति मिश्रीभवति वर्णान्तरेण इति भरतः । इत्यमरटीकायां रघु- नाथचक्रवर्त्ती ।) श्रोतोऽञ्जनम् । अन्धकारः । इति मेदिनी । के, १४० ॥ नीलाञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, -- “मेचकं मर्द्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम् ।” इति माधवकरकृतरुग्विनिश्चयव्याख्यानेऽतीसा- राधिकारे विजयरक्षितः ॥)

"https://sa.wiktionary.org/w/index.php?title=मेचकम्&oldid=159033" इत्यस्माद् प्रतिप्राप्तम्