सामग्री पर जाएँ

मेथिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेथिः, पुं, (मेथन्ते पशवोऽत्रेति । मेथ सङ्गे + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) खले पशुबन्धनार्थन्यस्तदारु । मेइ काठ इति भाषा । यथा, -- “मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।” इति हेमचन्द्रः । ३ । ५५८ ॥ (स्त्री, मेथिका । तत्पर्य्यायो यथा, -- “मेथिका मेथिनी मेथिर्दीपनी बहुपत्रिका । बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च कैरवी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ क्वचित् मेथीति पाठो दृश्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=मेथिः&oldid=159052" इत्यस्माद् प्रतिप्राप्तम्