मेदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदः, [स्] क्ली, (मेद्यति स्निह्यतीति । मिद् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति “मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा- दीन् दौर्गन्ध्यञ्च ।” “पूर्ब्बः पूर्ब्बोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् । तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥” “क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् । तावद्यावदरोगः स्यान्नरो रोगसमन्वितः ॥” इति सुश्रुते सूत्रस्थाने १५ अध्यायः ॥ “तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना- मुदरस्थमन्वस्थिषु च महत्सु च मज्जा भवति ॥” इति तत्रैव शारीरस्थाने ४ अध्याये ॥)
मेदः, पुं, (मेद्यति स्निह्यतीति । मिद् + अच् ।) वपा । इति शब्दचन्द्रिका ॥ “तृष्णाकण्डुकृमिहरो मलघ्नो मेदकुष्ठहा ॥” इति भरतधृतशालिहोत्रः ॥) म्लेच्छजातिविशेषः । इति जटाधरः ॥ अल- म्बुषा । इति राजनिर्घण्टः ॥ (ऐरावतकुलजो नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदः [mēdḥ], 1 Fat.
A particular mixed tribe; cf. Ms. 1.36; Mb.13.22.22 (com. मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः).
N. of a serpent-demon.
N. of a plant (अलंबुषा). -दा A root resembling ginger (one of the eight principal medicines). -Comp. -कृत् n. the flesh.-जम् a species of bdellium. -भिल्लः N. of a degraded tribe.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदः in comp. for मेदस्.