मेदा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदा, स्त्री, (मेदो अस्याः अस्तीति । मेद + अच् । टाप् ।) अष्टवर्गप्रसिद्धौषधिविशेषः । तत्पर्य्यायः । मेदोद्भवा २ जीवनी ३ श्रेष्ठा ४ मणिच्छिद्रा ५ विभावरी ६ । इति रत्नमाला ॥ वसा ७ स्वल्पपर्णिका ८ मेदःसारा ९ स्नेह- वती १० मेदिनी ११ मधुरा १२ स्निग्धा १३ मेधा १४ द्रवा १५ साध्वी १६ शल्यदा १७ बहुरन्ध्रिका १८ पुरुषदन्तिका १९ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाहार्त्ति- काशराजयक्ष्मज्वरनाशित्वम् । वातदोषकारि- त्वञ्च । इति राजनिर्घण्टः ॥ तस्य लक्षणं यथा, “शुक्लकन्दो नखच्छेद्यो मेदो धातुमिव श्रवेत् । यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्ज्जनैः ॥” मेदामहामेदास्थाने शतावरी मूली । इति भावप्रकाशः ॥ अस्या विवरणं महामेदाशब्दे द्रष्टव्यम् ॥ (अनुकल्पोऽस्या यथा । “मेदाभावे चाश्वगन्धा ।” इति वैद्यकपरिभाषायाम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदा¦ स्त्री मेदः कारणत्वेनास्त्यसाः अच्। अष्टवर्गप्रसिद्धौ-षधिभेदे भावप्र॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेदा f. a root resembling ginger (said to be one of the 8 principal medicines) Sus3r.