मेधिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मेधिः, पुं, (मेध्यते खले स्थाप्यते इति । मेध + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११३ । इति इन् ।) खले पशुबन्धनार्थन्यस्तदारु । इत्यमरः । २ । ९ । १५ ॥ खले धान्यमर्द्दनस्थानमध्ये पशुबन्धन- निमित्तं निहितं यद्दारु स मेधिः । मेइ इति ख्याते । इति भरतः ॥ तत्पर्य्यायः । मेथिः ३ खलेवाली ३ । इति हेमचन्द्रः ॥ अस्य स्थापन- दिनं तत्र वारौ शुक्रबृहस्पती । नक्षत्राणि रेवती स्वाती हस्ता मूलं मृगशिरश्च । तत्र लग्नं स्थिरम् । इति ज्योतिस्तत्त्वम् ॥
