सामग्री पर जाएँ

मेधिरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मेधिरः, त्रि, (मेधास्यास्तीति । मेधा + “मेधारथा- भ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ । इति काशिकोक्त्या इरन् ।) मेधावी । इति त्रिकाण्ड- शेषः ॥ (यथा, ऋग्वेदे । १ । २५ । २० । “त्वं विश्वस्य मेधिर ! दिवश्च ग्मश्च राजसि ।” “हे मेधिर ! मेधाविन् ! वरुण ।” इति तद्भाष्ये सायणः ॥ यज्ञवान् । हविष्मान् । यथा, ऋग्- वेदे । १० । १०० । ६ । “इन्द्रस्य सुनुकृतं दैव्यं सहोग्निर्गृहेजरिता मेधिरः कविः ।” “मेधो यज्ञः हविर्वा तद्बान् ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=मेधिरः&oldid=159096" इत्यस्माद् प्रतिप्राप्तम्