मैत्त्र
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मैत्त्र(त्र)¦ न॰ मित्रो देवतास्य अण् मैत्रं पायुस्तस्येदं पुनरण्।
१ विष्ठोत्सर्गे
“मैत्रं कर्म समाचरेत्” इति स्मृतिः। मित्रोदेवताऽस्य, मित्त्रत आगतं तस्येदं वा अण्।
२ अनु-राधानक्षत्रे न॰। तस्य हि मित्रो देवता।
३ मित्त्रतःप्राप्ते
“मैत्त्रमौद्वाहिकञ्चैव” स्मृतिः।
३ सुहृत्सम्बन्धिनिच त्रि॰। मित्त्रमेव स्वार्थे प्रज्ञाद्यण्।
५ मित्त्रे
६ ब्राह्मणे च पु॰ त्रिका॰।
