मैत्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मैत्रः, पुं, ब्राह्मणः । इति त्रिकाण्डशेषः ॥ (यथा, मनुसंहितायाम् । २ । ८७ । “जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्य्यादन्यन्न वा कुर्य्यान् मैत्रो ब्राह्मण उच्यते ॥” “मित्रमेव मैत्रः स्वार्थे अण् ।” इति तट्टीकायां मेधातिथिकुल्लूकौ ॥ (उदयमुहूर्त्तात् तृतीय- मुहूर्त्तः । तथा च बृहस्पतिः । “आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च ॥” यथा, कुमारे । ७ । ६ । “मैत्रे मुहूर्त्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ॥” वर्णशङ्करविशेषः । यथा, मनुः । १० । २३ । “वैश्यात्तु जायते व्रात्यात् मुधन्वाचार्य्य एव च । कारूषश्च विजन्मा च मैत्रः सात्वत एव च ॥”)
