सामग्री पर जाएँ

मैत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मैत्रम्, क्ली, (मित्रादागतमिति । यद्बा, मित्रस्येद- मिति । मित्र + “तस्येदम् ।” ४ । ३ । १२० । इति अण् ।) अनुराधानक्षत्रम् १७ । यथा, -- “मैत्राद्यपादे स्वपितीह विष्णु- र्व्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ (मित्रः सूर्य्यो देवतास्येति । आदित्यलोकः । यथा, महाभारते । १२ । ३१७ । ३ । “पायुनोत्क्रममाणन्तु मैत्रं स्थानमवाप्नुयात् । पृथिवीं जघनेनाथ ऊरुभ्याञ्च प्रजापतिम् ॥” यद्बा, मनुः । १२ । ७२ । “मेत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ॥”) पुरीषोत्सर्गः । यथा, -- “ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ कल्यं उषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब- न्धात् पुरीषोत्सर्गः ।” इत्याह्निकाचारतत्त्वम् ॥ अपि च । “ब्राह्म्ये मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्व्वर्त्य मैत्रं कर्म्म समाचरेत् ॥” मैत्रं मलमूत्रोत्सर्गः । इति राजवल्लभः ॥ * ॥ तत्र निषिद्धस्थानादि यथा, -- “छायाकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु । अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ न गोमये न दृष्टे वा महावृक्षे च शाद्बले । न तिष्ठन् वा न निर्व्वासा न च पर्व्वतमस्तके ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्त्तेषु न गच्छन् वा समाचरेत् ॥ तुषाङ्गारकपालेषु राजमार्गे तथैव च । न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥ नद्यां नदसमीपे वा नोषरे न पराशुचौ । न सोपानत्पादुको हि छत्री वा नान्तरीक्षके ॥ न चैवामिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् । न देवदेवालययोरपामपि कदाचन ॥ न ज्योतींषि निरीक्षन् वा न वाय्वभिमुखो- ऽथवा । प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ अस्य विस्तारस्तु पाद्मे उत्तरखण्डे १९० अध्याये द्रष्टव्यः ॥ * ॥ (मित्रस्य भावः । मित्र + अण् । मित्रता । यथा, मनुः । ८ । ११८ । “लोभात् मोहात् भयात् मैत्रात् कामात् क्रोधात् तथैव च । अज्ञानात् बालभावाच्च साक्ष्यं वितथमुच्यते ॥”) त्रि, मित्रसम्बन्धी ॥ (यथा, महाभारते । १२ । १४४ । २३ । “पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् । ऋतं मैत्रञ्च भाषन्ते ते नराः स्वर्गगामिनः ॥” मित्रताशाली । यथा, श्रीमद्भगवद्गीतायाम् । १२ । १३ । “अद्वेष्टा सर्व्वभूतानां मैत्रः करुणं एवच । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥” “मित्रभावो मैत्रो मित्रतया वर्त्तते ।” इति श्रीशङ्करभाष्यम् ॥ “मैत्रः हीनेषु कृपालुः ।” इति श्रीधरस्वामी ॥ “मैत्री मित्रता तद्बान् मैत्रः ।” इति श्रीमधुसूदनसरस्वती ॥)

"https://sa.wiktionary.org/w/index.php?title=मैत्रम्&oldid=159170" इत्यस्माद् प्रतिप्राप्तम्