सामग्री पर जाएँ

मैत्रेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मैत्रेयः, पुं, (मैत्रे मित्रतायां साधुरिति । मैत्र + ढञ् ।) बुद्धभेदः । इति त्रिकाण्डशेषः ॥ (मित्रयोः अपत्यमिति । मित्रयु + “गृष्ट्यादि- भ्यश्च ।” ४ । १ । १३६ । इति ढञ् । ततः “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति युस्थाने इयादेशे प्राप्ते । “दाण्डिनायन- हास्तिनायन ।” ६ । ४ । १७४ । इति युलोपो निपातितः ।) मुनिविशेषः । यथा, -- “एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥” इति श्रीभागवते । ३ । ७ । १ ॥ (सूर्य्यः । यथा, महाभारते । ३ । ३ । २७ । “देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥” वर्णसं करजातिविशेषः । यथा, मनुसंहिता- याम् । १० । ३३ । “मैत्रेयकन्तु वैदेहो माधूकं सम्प्रसूयते । नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥” “मैत्रेयकं नाम्ना वर्णम् ।” इति तत्र मेधातिथिः ॥ स्त्री । मैत्रेयेन उच्चारिता मैत्रेयी उपनिषद् ॥ याज्ञवल्कस्य पत्नी च ॥) मित्रसम्बन्धिनि, त्रि ॥ (मित्रयुवंशोद्भवादौ च । यथा, हरिवंशे । ३२ । ७७ -- ७८ । “अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् । दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः । मैत्रायणी ततः शाखा मैत्रेयास्तु ततः स्मृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=मैत्रेयः&oldid=159182" इत्यस्माद् प्रतिप्राप्तम्