मैनाकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मैनाकः, पुं, (मेनकाया अपत्यं पुमान् । मेनकायां भव इति वा । मेनका + अण् । पृषोदरादित्वात् साधुः ।) पर्व्वतविशेषः । तत्पर्य्यायः । हिरण्य- नाभः २ सुनाभः ३ हिमवत्सुतः ४ । इति जटा- धरः ॥ स तु हिमालयस्य ज्येष्ठपुत्त्रः । यथा, -- “ततो भगवती प्राह मेनकां मुनिसन्निभाम् । स्मितपूर्ब्बं तदा तस्याः पूरयन्ती मनोरथम् ॥ श्रीदेव्युवाच । शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः । तत्रैको बलवान् मुख्यः प्रथमं संभविष्यति ॥ एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत । मेनका च मुदं लब्ध्वा स्वस्थानं प्रविवेश ह ॥ ततः काले तु संप्राप्ते मैनाकमचलोत्तमम् । पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्त्तते ॥ मेनका सुषुवे देवी देवेन्द्रं स्पर्द्धया गतम् । अन्यानूनशतं पुत्त्रान् क्रमात् सा सुषुवे च ह ॥” इति कालिकापुराणे ४० अध्यायः ॥ (दानवविशेषः । इति हरिवंशे भविष्यपर्व्वणि । २३२ । ३ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मैनाकः [mainākḥ], [मेनकायां भवः अण्] N. of a mountain, son of Himālaya and Menā, who alone retained his wings (when Indra clipped those of other mountains) on account of his friendship with the ocean; cf. Ku.1.2; चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् Bv. -Comp. -स्वसृ f. epithet of Pārvatī.
