सामग्री पर जाएँ

मोघम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मोघम्, त्रि, (मुह्यतेऽस्मिन्निति । मुह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) निरर्थकम् । इत्यमरः । ३ । १ । ८१ ॥ (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥” यथा च । “प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च । मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥ तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया । तस्मान्मोघाः क्रियाः सर्व्वा भवन्त्येव गतायुषः ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्याये ॥) हीनम् । इति मेदिनी । घे, ४ ॥ (यथा, आर्य्यासप्तशत्याम् । ६७० । “सज्जन एव हि विद्या शोभायै भवति दुर्ज्जने मोघा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

मोघम्/ मो ind. 168410

"https://sa.wiktionary.org/w/index.php?title=मोघम्&oldid=369969" इत्यस्माद् प्रतिप्राप्तम्