मोचनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोचनम्, क्ली, (मुच् + ल्युट् ।) मोक्षः । (यथा, महाभारते । ५ । ८४ । २१ । “अवतीर्य्य रथात्तूर्णं कृत्वाशौचं यथाविधि । रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥”) कल्कनम् । दम्भः । शाठ्यम् । इति मुचधातो- र्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥ (मोचयतीति । मोचि + ल्युः । मोचनकर्त्तरि, त्रि । यथा, भागवते । ६ । १३ । २३ । “धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥”)
