मोचरसः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोचरसः पुं, (मोचस्य रसः ।) शाल्मलिनिर्यासः । तत्पर्य्यायः । मोचस्रुत् २ मोचस्रावः ३ मोच- निर्यासः ४ पिच्छिलसारः ५ सुरसः ६ शाल्मली- वेष्टः ७ मोचसारः ८ । अस्य गुणाः । कषायत्वम् । कफवातहरत्वम् । रसायनत्वम् । बलपुष्टिवर्णवीर्य्यप्रज्ञायुर्देहसिद्धिदत्वम् । ग्राहि- त्वञ्च । इति राजनिर्घण्टः ॥ (यथा, मुश्रुते । उत्तरतन्त्रे । ४० अध्याये । “तिलामोचरसो लोध्रं तथैव मधुकोत्पलम् । कच्छरातिलकल्कश्च योगाश्चत्वार एव तु ॥ आजेन पयसा पेयाः सरक्ते मधुसंयुताः ॥”)
