मोचा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोचा, स्त्री, (मुञ्चति त्वचमिति । मुच् + अच् । टाप् ।) शाल्मलिवृक्षः । (यथा, -- “शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च । रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥” इति मावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥) कदलीवृक्षः । इत्यमरः । २ । ४ । १३३ ॥ (यथास्याः पर्य्यायः । “कदली वारणा मोचाम्बुसारांशुमतीफला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) नीलीवृक्षः । इति राजनिर्घण्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोचा स्त्री।
शाल्मलिः
समानार्थक:पिच्छिला,पूरणी,मोचा,स्थिरायुस्,शाल्मलि
2।4।46।2।3
इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥
अवयव : शाल्मलीक्वाथः
: कृष्णशाल्मलिः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
मोचा स्त्री।
कदली
समानार्थक:कदली,वारणबुसा,रम्भा,मोचा,अंशुमत्फला,काष्ठीला
2।4।113।1।4
कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोचा f. Musa Sapientum Naish.
मोचा f. the cotton shrub L.
मोचा f. the indigo plant L.