मोहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोहः, पुं, (मोहनमिति । मुह् + भावे घञ् ।) मूर्च्छा । इत्यमरः । २ । ८ । १०९ ॥ (यथा, उत्तररामचरिते ३ अङ्के । “वीचिवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेषितैस्तर्पयेति ॥” अस्य विषयो यथा, -- “संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः । तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥ सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् । मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकी- र्त्तिता ॥” इति सुश्रुते उत्तरतन्त्रे ४६ अध्याये ॥) अविद्या । इति मेदिनी । हे, ७ ॥ दुःखम् । इति शब्दरत्नावली ॥ देहादिषु आत्मबुद्धिः । इति गीतासुबोधिन्यां श्रीधरस्वामी ॥ असौ ब्रह्मणो बुद्धितो जातः । यथा, -- “बुद्धेर्मोहः समभवदहङ्कारादभून्मदः । प्रमोदश्चाभवत् कण्ठान्मृत्युर्लोचनतो नृप ! ॥” इति मात्स्ये २ अध्यायः ॥ मोहस्वरूपं यथा, -- “मम माता मम पिता ममेयं गृहिणी गृहम् । एतदन्यं ममत्वं यत् स मोह इति कीर्त्तितः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥ धर्म्मविमूढत्वम् । यथा, -- “अकामतः कृतं पापं वेदाभ्यासेन नश्यति । कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधै- रिति ॥” नन्वत्र मोहादिति को मोहः । अत्र । “मोहशब्देन देवेन्द्र ! बुद्धिपूर्ब्बो व्यतिक्रमः । उच्यते पण्डितैर्नित्यं पुराणे सांशपायनः ॥” इति भविष्यपुराणवचनात् जातबुद्धिपूर्ब्बो व्यति- क्रमो मोहः । इति जिकनः । तन्न कामना- सामर्थ्यादेव बुद्धेर्लब्धत्वात् । उच्यते । शूद्रस्य ब्रह्माणीं मोहाद्गच्छत इत्यादौ मुह वैचित्त्ये इति धात्यर्थानुसारात् अज्ञानमात्रं मोहः । यत्र तु कामनाशब्दोऽस्ति तत्र भविष्यपुराण- सङ्केतितमोहशब्दो न ग्राह्यः । किन्तु घर्म्म- विमूढत्वं मोहः स चाधर्म्मबुद्धौ सत्यामप्यकर्त्तव्ये रागात् कर्त्तव्यताभ्रमः । यथा, व्यासः । “मोहो धर्म्मविमूढत्वं मानस्त्वात्माभिमानिता ।” एवञ्च भविष्यपुराणीयबुद्धिशब्दोऽप्यधर्म्मज्ञान- मेवाभिधत्ते सत्यधर्म्मज्ञाने पापगौरवार्थमिद- मुक्तं मोहादिति । इति प्रायश्चित्तविवेकः ॥ * ॥ मोहवृक्षो यथा, -- सुमनोवाच । “श्रूयतामभिधास्यामि सर्व्वसन्देहनाशनम् । स्वरूपमुपदेशस्य सर्व्वविज्ञानदर्शनम् ॥ लोभः पापस्य बीजोऽयं मोहो मूलन्तु तस्य हि । असत्यं तस्य च स्कन्धो माया शाखासुविस्तरः ॥ दम्भकौटिल्यपत्राणि कुकृत्या पुष्पितः सदा । पैशुन्यं तस्य सौगन्ध्यमज्ञानं फलमेव हि ॥ छद्मपाषण्डचौराश्च कूटाः क्रूराश्च पापिनः । पक्षिणो मोहवृक्षस्य मायाशाख्याः समा- श्रिताः ॥ अज्ञानन्तु फलं तस्य रसोऽधर्म्मफलस्य हि । भावोदकेन संवृद्धस्तस्य सत्त्वात् स तु प्रियः ॥ अधर्म्मस्तस्य सुरभिः क्लेदश्च मधुरायते । तादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥ तस्य च्छायां समाश्रित्य यो नरः परिवर्त्तते । फलानि तस्य योऽश्नाति सुपक्वानि दिने दिने ॥ फलानान्तु रसेनैव अधर्म्मेण तु पोषितः । सुसंपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ॥” इति पाद्मे भूमिखण्डे ११ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोहः [mōhḥ], [मुह् घञ्]
Loss of consciousness, fainting, a swoon, insensibility; मोहेनान्तर्वरतनुरियं लक्ष्यते मुच्यमाना V.1.8; मोहादभूत् कष्टतरः प्रबोधः R.14.56; Ku.3.73; कतिचन पेतुरुपेत्य मोहमुद्राम् Śiva B.28.88.
Perplexity, delusion, embarrassment, confusion; यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव Bg.4.35.
Folly, ignorance, infatuation; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् R.1.2; Ś.7.25.
Error, mistake.
Wonder, astonishment.
Affliction, pain.
A magical art employed to confound an enemy.
(In phil.) Delusion of mind which prevents one from discerning the truth (makes one believe in the reality of worldly objects and to be addicted to the gratification of sensual pleasures); महामोहं च मोहं च तमश्चाज्ञानवृत्तयः Bhāg.3.12.2.
Illusion of attachment or love; स्वगृहोद्यानगतेी$पि स्निग्धैः पापं विशङ्क्यते मोहात् Pt.2.171. Comp. -उपमा (in Rhet.) a figure of speech in which the उपमान and उपमेय are confounded; शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनु- धावामीत्येषा मोहोपमा स्मृता ॥ Kāv.2.25.
कलिलम् the thick net or snare of delusion.
spirituous liquor.-जालम् mundane fascination. -निद्रा over-weening confidence. -मन्त्रः a deluding spell. -रात्रिः f. the night when the whole universe will be destroyed; कालरात्रि- र्महारात्रिर्मोहरात्रिश्च Chaṇḍīpāṭha. -शास्त्रम् a false doctrine or precept.
