मोहशास्त्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मोहशास्त्रम्, क्ली, (मोहोत्पादकं शास्त्रमिति मध्यपदलोपिकर्म्मधारयः ।) अविद्याजनकग्रन्थः । यथा, -- “गोपतिं प्राह विप्रेन्द्रानालोक्य भगवान् हरि । न वेदवाह्यपुरुषे पुण्यलेशोऽपि शङ्कर ! ॥ सङ्गच्छते महादेव ! धर्म्मो वेदाद्धि निर्ब्बभौ । तथापि भक्तबात्सल्याद्रक्षितव्या महेश्वर ! ॥ अस्माभिः सर्व्व एवेमे गन्तारो नरकानपि । अस्माद्वै वेदवाह्यानां रक्षणाय च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ! ॥ एवं सम्बोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥” इति कौर्म्मे १४ अध्यायः ॥
