मौलिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मौलिः, पुं, स्त्री, (मूल + सुतङ्गमादित्वात् इञ् ।) चूडा । (यथा, महाभारते । ९ । ५९ । ५ । “एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ॥ शिरश्च राजसिंहस्य पादेन समलोडयेत् ॥”) किरीटम् । (यथा, हरिवंशे । ९७ । ३० । “इयञ्च सा मया मौलिरुद्धृता वरुणालयात् ॥”) संयतकेशः । इत्यमरः । ३ । ३ । १९२ । (यथा, रघौ । ७ । ६६ । “स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिविन्दुः भीतां प्रियामेत्य वचो बभाषे ॥”) मस्तकम् । इति हेमचन्द्रः । ३ । २ । २३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४२४ । “भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणि- दीपाः ॥” प्रधानः । यथा, मार्कण्डेये । ५९ । १४ । “मौलयस्ते महाकायाः शाकपोतकरम्भकाः ॥”)
मौलिः, पुं, (मूलस्यादूरभवः । मूल + सुतङ्ग- मादित्वादिञ् ।) अशोकवृक्षः । इति मेदिनी ॥
मौलिः, स्त्री, (मूले जाता । मूल + इञ् ।) भूमिः । इति मेदिनी ॥
