मौहूर्त्तिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मौहूर्त्तिकः, पुं, (मुहूर्त्तं तद्बोधकं शास्त्रमधीते वेद वा । मूहूर्त्त + “क्रतूक्थादिसूत्रान्तात् ठक् ।” ४ । २ । ६० । इति ठक् ।) ज्योतिर्व्वेत्ता । इत्यमरः । २ । ८ । १४ ॥ (यथा, कथासरित्- सागरे । २२ । १३३ । “ततो मौहूर्त्तिकादेशादन्येद्युर्व्वरकन्यका । सा मया परिणीता भून्मिलिताखिलबन्धुना ॥” दक्षकन्यामुहूर्त्तोद्भवदेवगणविशेषः । यथा, भाग- वते । ६ । ६ । ९ । “मौहूर्त्तिका देवगणा मुहूर्त्तायाश्च जज्ञिरे ॥” मुहूर्त्तोद्भवे, त्रि । यथा, भागवते । ५ । १३ । २२ । “मौहूर्त्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः ॥”)
