म्लेच्छजातिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
म्लेच्छजातिः, स्त्री, (म्लेच्छस्य जातिरिति षष्ठी- तत्पुरुषः म्लेच्छरूपा जातिरिति कर्म्मधारयो वा ।) गोमांसखादकबहुविरुद्धभाषकसर्व्वा- चारविहीनवर्णः । यथा, -- “गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्व्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥” इति प्रायश्चित्ततत्त्वधृतबौधायनवचनम् ॥ अपि च । “भेदाः किरातशवरपुलिन्दा म्लेच्छजातयः ॥” इत्यमरः । २ । ४० । २० ॥ अन्यच्च । “पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा शवनाः शकाः । पारदाः पह्नवाश्चीनाः किराताः दरदाः खशाः ॥ मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥” इति मानवे १० अध्यायः ॥
