सामग्री पर जाएँ

म्लेच्छदेशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

म्लेच्छदेशः, पुं, (म्लेच्छानां देशः म्लेच्छप्रधानो देशो वा ।) चातुर्व्वर्ण्यव्यवस्थादिरहित- स्थानम् । तत्पर्य्यायः । प्रत्यन्तः २ । इत्यमरः । २ । १ । ७ ॥ भारतवर्षस्यान्तं प्रतिगः प्रत्यन्तः । म्लेच्छति शिष्टाचारहीनो भवत्यत्र म्लेच्छः अल् । स चासौ देशश्चेति म्लेच्छदेशः । किंवा म्लेच्छयन्ति असंस्कृतं वदन्ति शिष्टा- चारहीना भवन्तीति वा पचाद्यचि म्लेच्छा नीचजातयः तेषां देशो म्लेच्छदेशः । भारतवर्ष- स्यान्तः शिष्टाचाररहितः कामरूपवङ्गादिः । उक्तञ्च । चातुर्व्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततः पर- मिति ॥” इति भरतः ॥ (अपि च, मनुः । २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततःपरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=म्लेच्छदेशः&oldid=159370" इत्यस्माद् प्रतिप्राप्तम्