म्लेच्छमुखम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
म्लेच्छमुखम्, क्ली, (म्लेच्छे म्लेच्छदेशे मुखमुत्पत्ति- रस्य । इत्यमरटीकायां रघुनाथः ।) ताम्रम् । इत्यमरः । २ । ९ । ९७ ॥ (तथास्य पर्य्यायः । “ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “ताम्रमौडुम्बरं शूल्वं विद्यात् म्लेच्छमुख- न्तथा ॥” इति गारुडे २०८ अध्याये ॥)
