यक्षधूपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षधूपः, पुं, (यक्षप्रियो धूपः ।) धूपसामान्यम् । धूनकधूपः । इति केचित् । धुना इति ख्यात इति केचित् । इति भरतः ॥ तत्पर्य्यायः । सर्ज- रसः २ अरालः ३ सर्व्वरसः ४ बहुरूपः ५ । इत्यमरः । २ । ६ । १२७ ॥ रालः ६ धूनकः ७ वह्निवल्लभः ८ । इति रभसः ॥ सालसारः ९ सालजः १० सालनिर्यासः ११ सर्ज्यः १२ । इति रत्नमाला ॥ (अस्य पर्य्यायान्तरं यथा, -- “रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ एतेन माधवपूजननिषेधो देवीपूजा चोक्ता यथा कालिकापुराणे ६८ अध्याये । “न यक्षधूपं वितरेत् माधवाय कदाचन ।” “यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ॥”) सरलवृक्षरसः । टारपिन तेल इति भाषा । तत्पर्य्यायः । पायसः २ श्रीवासः ३ सरलद्रवः ४ । इति हेमचन्द्रः । ३ । ३११ ॥

"https://sa.wiktionary.org/w/index.php?title=यक्षधूपः&oldid=159403" इत्यस्माद् प्रतिप्राप्तम्