यक्ष्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मन् पुं।

राजयक्ष्मा

समानार्थक:क्षय,शोष,यक्ष्मन्

2।6।51।2।3

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मन्¦ पु॰ यक्ष--मनिन्। रोगभेदे अमरः। तन्निदानादि यथा
“वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात्। त्रिदोषोजायते यक्ष्मा गदो हेतुचतुष्टयात्”। येगोऽत्र वातमूत्रपुरीषाणां।
“वातमूत्रपुरीषाणि निगृह्णाति यदानरः” इति चरकवचनात्। क्षयात् क्षीयतेऽनेनेतिक्षयः तेनातिव्यवायानशनेर्ष्यादयो धातुक्षयहेतवः क्षयशब्देनोच्यन्ते। साहसात् बलवता समं मल्लयुद्धादितः। शिषमाशनात्
“बहु स्तोकमकाले वा तद्भक्तंविषमाशनम्” तस्मात्। त्रिदोषः सान्निपातिकः। हेतु-चतुष्ठयात् अन्येपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति। यक्ष्मणः पर्य्यायाः राजयक्ष्मक्षयशोषाः। यक्ष्मादीनांशब्दानां निरुक्तिमाह
“वैद्यो व्याधिमतां यस्मात्व्याधेयंत्नेन यक्ष्यते। स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः”। यक्ष्यते पूज्यते।
“राज्ञश्चन्द्रमसोयस्मादभूदेष किलामयः। तस्मात्तं राजयक्ष्मेतिकेचिदाहुर्मनीषिणः। क्रियाक्षयकरत्वात्तु क्षयइत्युच्यते बुधैः। संशोषणाद्रसादीनां शोष इत्यमि-[Page4768-b+ 38] धीयते”। संप्राप्तिमाह
“कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु। अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः। क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः”। कफ-प्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेसु अनन्तराः सर्वे धातवःक्षीयन्ते ततो मानवः शुष्यति। कारणभूतस्य रसस्य क्षयेकार्य्याणां रक्तादीनामनुक्रमेण क्षीयमाणत्वात्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मन्¦ m. (-क्ष्मा) Pulmonary consumption. E. यक्ष् to worship, and मनिन् Una4di aff.; also with मन् aff., यक्ष्म m. (-क्ष्मः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मन् m. pulmonary consumption , consumption Ka1tyS3r. Sch. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्मन्&oldid=372779" इत्यस्माद् प्रतिप्राप्तम्