यजुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजुः, [स्] क्ली, (इज्यतेऽनेनेति । यज् + “अर्त्ति- पॄवपियजीति ।” उणा० २ । ११८ । इति उसिः ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥ “इज्यतेऽनेनेति यजुः । यजै ञौ देवार्च्चादानसङ्ग- कृतौ । त्रासुसिस् इति उस् ।” इति भरतः ॥ * ॥ अपि च । यजुराह जैमिनिः । शेषे वा यजुः- शब्दः । शेषे ऋक्सामभिन्ने मन्त्रजाते ततश्च यन्मन्त्रजातं प्रश्लिष्य पठितं गानादिविच्छेद- रहितं तत् यजुरिति । इति तिथ्यादितत्त्वम् ॥ यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व- रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्याः ६ आष्ठालकठाः ७ चाराय- णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र मैत्रायणीया नाम सप्त भेदा भवन्ति । मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४ हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया- श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः- महस्राण्यधीत्य शाखापारो भवति । तान्येव द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु- णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त- दश भेदा भवन्ति । जाबालाः १ औधेघाः २ काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आवटिकाः ९ पामावटिकाः १० पारा- शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४ गालवाः १५ वैजवाः १६ कात्यायनीया- श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति । उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३ अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६ श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९ क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३ पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्- थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि- शिष्टानि । “द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके । इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥ ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् । आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् । वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥” तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति । औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा- यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया- श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु- श्चत्वारिंशत्युपग्रन्थान् । “मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥” यजुर्व्वेदस्य धनुर्व्वेद उपवेदः । यजुर्व्वेदस्य भार- द्वाजगोत्रम् । रुद्रदैवत्यम् । त्रैष्टुभं छन्दः । यजु- र्व्वेदः कृशः । दीर्घः । कपाली । ताम्रवर्णः । काञ्चननयनः । आदित्यवर्णः वर्णेन । पञ्चारत्नि- मात्रः । अस्य ध्यानम् । “वन्दे रौद्रं त्रैष्टभं ताम्रवर्णं भारद्वाजं रुक्मनेत्रं कृशाङ्गम् । यजुर्व्वेदं दीर्घमादित्यवर्णं कापालीनं पञ्च चारत्निमात्रम् ॥” य इदं दैवतं रूपं गोत्रं प्रमाणं छन्दो वर्णं वर्णयति स विद्यां लभते स विद्यां लभते । जन्मजन्मनि वेदपारो भवति । जन्मजन्मनि वेदधारो भवति । अव्रतो व्रती भवति । अप्रयतः प्रयतो भवति । अब्रह्मचारी ब्रह्म- चारी भवति । जातिस्मरो जायते । इति चरणव्यूहम् ॥ (ऋक्सामभिन्नो मन्त्रविशेषः । इति केचित् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजुः in comp. for यजुस्.

"https://sa.wiktionary.org/w/index.php?title=यजुः&oldid=373091" इत्यस्माद् प्रतिप्राप्तम्