यज्ञसूत्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञसूत्रम्, क्ली, (यज्ञे धृतं सूत्रम् ।) यज्ञोपवीतम् । यथा, -- “पवित्रं यज्ञसूत्रञ्च यज्ञोपवीतमित्यपि । यज्ञसूत्रं तदेवोपवीतं स्याद्दक्षिणे भुजे ॥ उद्धृते वामवाहौ तु प्राचीनावीतमप्यदः । निवीतन्तु तदेव स्यादूर्द्ध्ववक्षसि लम्बितम् ॥” इति जटाधरः ॥ तस्य प्रमाणं यथा, -- “ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्ब्बुधाः ॥ त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥ यजुर्व्विदां नाभिमितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥” इति कल्किपुराणे ४ अध्यायः ॥ अस्य धारणे मन्त्रो यथा, -- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपन- ह्यामि ।” इति संस्कारतत्त्वधृतभट्टभाष्यम् ॥ यजुषान्तु, -- “यज्ञोपवीतं परमं पवित्रं बृहस्पतेर्यत् सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥” इति पशुपतिः ॥ युगभेदे तत्सूत्रनियमो यथा, -- “सत्ये स्वर्णमयं सूत्रं त्रेतायां राजतं तथा । द्वापरे ताम्रजं प्रोक्तं कलौ कार्पाससम्भवम् ॥” इति बृहद्राजमार्त्तण्डः ॥ अन्यच्च । “यज्ञार्थं धार्य्यते सूत्रं यज्ञं ब्रह्मण्यमिष्यते । स्वर्णं रौप्यं ताम्रमूर्णं पट्टं कार्पासवार्हिषम् ॥ मृगाजिनं गुटं शङ्खी यथालब्धं निधाय च । यज्ञसूत्रं परिचरेद्ब्रह्मलिङ्गक्रियात्मकम् ॥ न तत्र नियमो ग्राह्यः सूत्रब्रह्मण्यशङ्कया ॥” इति बृद्धादित्यसंहिता ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञसूत्र नपुं।
यज्ञोपवीतम्
समानार्थक:उपवीत,यज्ञसूत्र
2।7।49।3।2
नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥
: कण्डलम्बितयज्ञोपवीतम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञसूत्र¦ न॰ यज्ञार्थं योग्यं संस्कृतं वा सूत्रं शाक॰ त॰। यज्ञोपवीते जटा॰। तत्स्वरूपादि यथा
“ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः। तन्तुत्रय-[Page4770-a+ 38] मधोवृत्तं यज्ञसूत्रं विदुर्वुधाः। त्रिगुणं तद्ग्रन्थियुक्तंवेदप्रवरसम्मितम्। शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम्। यजुर्विदां नाभिमितं सामगानामयंविधिः। वामस्कन्धेन विधृतं यज्ञसूत्रं वलप्रदम्” कालिकापु॰
४ अ॰।
“उपवीतमाह गोभिलः
“यज्ञोपवीतंकुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्ज्वुमेव”। यज्ञोप-वीतं विशिष्टविन्यासधारणकर्मतया कुरुते। किं तत्-सूत्रं विशेषयति छन्दोगपरिशिष्टम्
“ऊर्द्धन्तु त्रिवृतंकार्य्यं तन्तुत्रयमधोवृतम्। त्रिवृतञ्चोपवीतं स्यात्तस्यैकोग्रन्थिरिष्यते”। वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वादक्षिणावर्तवलितं कार्य्यम् एवं त्रिवृतं त्रिवृतम् उपवीतंस्यात् एकोग्रन्थिरिति नानात्वनिषेधार्थम्। तथा चबोधायनः
“कौषां सूत्रं त्रिस्त्रिवृतं यज्ञोपवीमानाभेः”। कौषं कृंमकाषोद्भवं पट्टसूत्रादिमयमित्यथैः। सौत्रंकार्पासोद्भवम्। तथाच मनुः
“कार्पासमुपवीतं स्यात्विप्रस्योर्द्धवृतं त्रिवृत्। शणसूत्रमयं राज्ञो वैश्यस्या-विकसौत्रिकम्”। त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपित्रिवृन्मात्रं त्रिरावृत्तत्वेन विशेष्यम्। यत्तु पैठीनसिवच-नम्
“कार्पासमुपधीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य। क्षौमंराजन्यस्य आविकं वैश्यस्य”। तन्नवतन्त्वसम्भवे षट्तन्तुविधायकम्। नवतन्तुत्वं व्यक्तमाह देवलः
“यज्ञोपवीतंकुर्वीत सूत्राणि नवतन्तुभिः। एकेन ग्रन्थिना तन्तुर्द्वि-गुण स्त्रगुणोऽथवा”। एकेन ग्रन्थिना युक्त इति शेषः। द्विगुण{??}गुणोऽथ वेति तन्तुवलेन द्विसवो स्त्रिसवो वाकर्त्तव्यः। द्विसवत्वं त्रिसवत्वासम्भवे। गोभिले वाशब्दो विकल्पार्थः। अपिशब्दो वस्त्रकुशरज्ज्वोःसूत्रानुकल्पत्वप्रदर्शनार्थः। एवकारोऽत्रिसवत्वव्यव-छेदार्थः। द्वितीयो वाशब्दोऽनुक्तमौञ्जवालादिसमुच्च-यार्थः। तथा च निगमपरिशिष्टम्
“वाससा यज्ञोपवीतानिकुरुते तदमावे त्रिवृता सूत्रेण कुशमुञ्जवालप्रतिसवरज्जुभिर्वा। वालोऽत्र गोवालः यथाह देवलः
“कार्पासक्षौमगोवाल वररज्जुतृणोद्भवम्। सदा सम्भवतो धार्य्यमुपवीतं द्विजातिभिः”। तदभाव इतिकरणाद्वस्त्राभावेकुशरज्जुभिरिति वोद्धव्यम्”। श्रा॰ वि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञसूत्र¦ n. (-त्रं) The characteristic thread, worn by the three principal classes of Hindus. E. यज्ञ sacrifice, and सूत्र thread.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञसूत्र/ यज्ञ--सूत्र n. the sacrificial thread or cord(See. यज्ञो-पवीत) R.
