सामग्री पर जाएँ

यज्ञसूत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यज्ञसूत्रम्, क्ली, (यज्ञे धृतं सूत्रम् ।) यज्ञोपवीतम् । यथा, -- “पवित्रं यज्ञसूत्रञ्च यज्ञोपवीतमित्यपि । यज्ञसूत्रं तदेवोपवीतं स्याद्दक्षिणे भुजे ॥ उद्धृते वामवाहौ तु प्राचीनावीतमप्यदः । निवीतन्तु तदेव स्यादूर्द्ध्ववक्षसि लम्बितम् ॥” इति जटाधरः ॥ तस्य प्रमाणं यथा, -- “ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्ब्बुधाः ॥ त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥ यजुर्व्विदां नाभिमितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥” इति कल्किपुराणे ४ अध्यायः ॥ अस्य धारणे मन्त्रो यथा, -- “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपन- ह्यामि ।” इति संस्कारतत्त्वधृतभट्टभाष्यम् ॥ यजुषान्तु, -- “यज्ञोपवीतं परमं पवित्रं बृहस्पतेर्यत् सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥” इति पशुपतिः ॥ युगभेदे तत्सूत्रनियमो यथा, -- “सत्ये स्वर्णमयं सूत्रं त्रेतायां राजतं तथा । द्वापरे ताम्रजं प्रोक्तं कलौ कार्पाससम्भवम् ॥” इति बृहद्राजमार्त्तण्डः ॥ अन्यच्च । “यज्ञार्थं धार्य्यते सूत्रं यज्ञं ब्रह्मण्यमिष्यते । स्वर्णं रौप्यं ताम्रमूर्णं पट्टं कार्पासवार्हिषम् ॥ मृगाजिनं गुटं शङ्खी यथालब्धं निधाय च । यज्ञसूत्रं परिचरेद्ब्रह्मलिङ्गक्रियात्मकम् ॥ न तत्र नियमो ग्राह्यः सूत्रब्रह्मण्यशङ्कया ॥” इति बृद्धादित्यसंहिता ॥

"https://sa.wiktionary.org/w/index.php?title=यज्ञसूत्रम्&oldid=159472" इत्यस्माद् प्रतिप्राप्तम्