सामग्री पर जाएँ

यज्ञाङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यज्ञाङ्गः, पुं, (यज्ञं अङ्गति प्राप्नोतीति । अङ्ग + अण् ।) उडुम्बरः । इत्यमरः । २ । ४ । २२ ॥ (अस्य पर्य्यायो यथा, -- “यज्ञाङ्गो ब्रह्मवृक्षश्च हेमदुग्धोऽप्युडुम्बरः ॥” इति वैद्यकरत्नमालायाम् ॥ “उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) खदिरवृक्षः । इति राजनिर्घण्टः ॥ ब्राह्मण- यष्टिका । इति शब्दचन्द्रिका ॥ (यज्ञ एव अङ्गं यस्य । विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “भूर्भुवःस्वस्तरुस्तारः स्वपिता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥” * ॥ यज्ञस्याङ्गमिति ।) यागावयवे यज्ञसाधने च क्ली ॥ (यथा, कुमारसम्भवे । १ । १७ । “यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमञ्च ॥”)

"https://sa.wiktionary.org/w/index.php?title=यज्ञाङ्गः&oldid=159476" इत्यस्माद् प्रतिप्राप्तम्