यज्ञियः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञियः, पुं, (यज्ञाय हितः । यज्ञ + घः ।) द्वापर- युगम् । इति त्रिकाण्डशेषः ॥ (खदिरवृक्षः । तत्पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ पलाशः । तत्पर्य्यायो यथा, -- “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षो सरिद्वरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
