यज्ञोपवीतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यज्ञोपवीतम्, क्ली, (यज्ञधृतं उपवीतम् ।) यज्ञ- सूत्रम् । पैता इति भाषा । तत्पर्य्यायः । पवि- त्रम् २ ब्रह्मसूत्रम् ३ द्विजायनी ४ । इति त्रिकाण्डशेषः ॥ तस्य निरूपणं यथा । उप- वीतमाह गोभिलः । यज्ञोपवीतं कुरुते सूत्रं वस्तं वा अपि वा कुशरज्जुमेव । यज्ञोपवीतं विशिष्टविन्यासधारणकर्म्मतया कुरुते । किं तत् सूत्रम् । सूत्रं विशेषयति छन्दोगपरिशिष्टम् । “ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥” वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणा- वर्त्तवलितं कार्य्यं एवं त्रिवृतं त्रिसवं उपवीतं स्यात् । एको ग्रन्थिरिति नानात्वनिषेधार्थम् । तथा बौधायनः । “कौषं सौत्रं त्रिस्त्रिवृतं यज्ञोपवीतमानाभेः ॥” कौषं कृमिकोषोद्भवं पट्टसूत्रादिमयमित्यर्थः । सौत्रं कार्पासोद्भवम् । तथा मनुः । “कार्पासमुपवीतं स्यात् विप्रस्योर्द्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥” त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं त्रिसवत्वेन विशेष्यम् । यत्तु पैठीनसिवचनम् । कार्पासमुपवीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य । क्षौमं राजन्यस्य । आविकं वैश्यस्य । तन्नव- “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् । पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् ॥” श्रीपतिव्यवहारसमुच्चये । “कार्त्तिकस्याश्विनस्यापि फाल्गुनाषाढयो- रपि । कृष्णपक्षे द्बितीयायामनध्यायं विदुर्ब्बुधाः ॥” भुजबलः । “चैत्रकृष्णद्बितीयायां तिसृष्वेवाष्टकासु च । मार्गे च फाल्गुने चैव आषाढे कार्त्तिके तथा ॥ पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् । नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभक्रियाम् ॥” उपनयने उत्तरायणशुक्लपक्षयोर्विधानात् कार्त्ति- कादौ कृष्णपक्षे च द्वितीयानिषेधः पुनः- संस्कारमर्हति इत्युक्तप्रायश्चित्तरूपोपनयनपरः । वैश्योपनयनपरश्च । तथा च गर्गः । “विप्रस्य क्षत्त्रियस्यापि मौर्ञ्जा स्यादुत्तरायणे । दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे । अनध्यायेऽपि कुर्व्वीत यस्य नैमित्तिकं भवेत् ॥” अपिना दक्षिणायनकृष्णपक्षयोः समुच्चयः । नैमित्तिकं प्रायश्चित्तरूपम् । चैत्रशुक्लतृतीया आषाढशुक्लदशमी मन्वन्तरादित्वेन निषिद्धा । वैशाखशुक्लतृतीया युगादित्वेन निषिद्धा । षष्ठ्यामशुचिरुग्भार्य्यो रिक्तासु बहुदोषभाक् । सामगानां कुजवारेऽप्युपनयनम् । शाखाधि- पत्वात् । यथा च । “शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपनयनं कथितं द्बिजानाम् । मीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयः स्मृतिकर्म्महीनः ॥” अस्य शाखाधिपस्य । कृत्यचिन्तामणौ । “जन्मोदये जन्मसु तारकासु मासेऽथवा जन्मनि जन्मभे वा । व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम् ॥ अस्तं गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते । व्रतोपनीतो दिवसैः प्रणाशं प्रयाति देवैरपि रक्षितो यः ॥” उदये लग्ने । व्रतेन उपनयनेन । इति संस्कार- तत्त्वम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the sacred thread; फलकम्:F1: वा. २३. 3, २६.फलकम्:/F of शिव, skin of व्याल. फलकम्:F2: Ib. ५५. ५५.फलकम्:/F
